Sri Ram Janam Bhoomi Prana Pratishta competition logo.jpg

Sri Ram Janam Bhoomi Prana Pratisha Article Competition winners

Rāmāyaṇa where ideology and arts meet narrative and historical context by Prof. Nalini Rao

Rāmāyaṇa tradition in northeast Bhārat by Virag Pachpore

Adi Sankara puja vidhi devanagari

From Hindupedia, the Hindu Encyclopedia

|| आदिशंकराचार्यपूजाविधिः ||[edit]

|| श्रीशङ्करभगवत्पादा विजयंते||


मङ्गलाचरणम्[edit]

नमो ब्रह्मण्य देव्याय गोब्राह्मण हिताय च | जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ||


गुरुर्बह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः | गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ||


सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः | लम्बोदरश्च विकटो विघ्नराजो गणाधिपः||


धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः| द्वादशैतानि नामानि यः पठेच्छृणुयादपि||


विद्यारम्बे विवाहे च प्रवेशे निर्गमे तथा| सत्थामे सङ्कटे चैव विघ्नस्तस्य न जायते||


अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि| सर्व विघ्नच्छिदे तस्मै गणाधिपतये नमः ||


घंटानादम्[edit]

आगमार्धं तु देवानां गमनार्धं तु रक्षसाम्| देवतापू जनार्थाय घणानादं करोम्यहम्|| [इति घणानादं कृत्वा]


भूतोच्चाटणम्[edit]

अपसर्पनु ते भूता ये भूता भूमिसंस्थिताः| ये भूता विघ्नकर्तारः ते नश्श्यन्तु शिवाज्ञया||


अपक्रामन्तु भूतानि पिशाचास्सर्वतो दिशम्| सर्वेषामविरोधेन पूजाकर्म समारभे ||


संकल्पः[edit]

[आचम्य] [प्राणानायम्य] [देशकालौ संकीर्त्य] ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं अस्माकं सकुटुंबानां क्षेम स्थैर्य विजय वीर्य अयुरारोग्यैश्वर्याभिवृद्ध्यर्थं सर्वारिष्ट शास्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं श्रीशङ्करभगवत्पाद प्रसाद सिद्ध्यर्थं श्रीशङ्कराचार्य चरणारविद्दयोः अचंचल निष्काम निष्कपट भक्ति सिद्ध्यर्थं यथाशक्ति ध्यानावाहनादि षोडशैरुपचारैः श्रीमच्छङ्करभगवत्पाद पूजां करिष्ये ||


कलशार्चनम्[edit]

श्रीकलशाय नमः| दिव्यगन्धान् धारयामि || (कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्य) परिमलद्रव्याणि निक्षिप्य कलशं हस्तेनाच्छाद्य]


ॐ कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः| मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ||


कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्दरा| ऋग्वेदो थयजुर्वेदः सामवेदोऽह्यथर्वणः||


अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः| गायत्री चात्र सावित्री शान्तिः पुष्टिकरी तथा||


गंगे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिद्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु||


सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः | आयान्तु गुरुपूजार्धं दुरितक्षयकारकाः ||


[कलशमुखे पुष्पाणि निक्षिप्य - कलशोदकेन आत्मानं सर्वोपकरणानि च प्रोक्षयेत्]


|| आदौ निर्विघ्नता सिद्ध्यर्थं श्रीमहागणपतिपूजां करिष्ये ||


श्रीमहागणपतये नमः - ध्यायामि | ध्यानं समर्पयामि ||


श्रीमहागणपतये नमः - अवाहयामि |


श्रीमहागणपतये नमः - आसनं कल्पयामि |


श्रीमहागणपतये नमः - पादारविद्दयोः पाद्यं समर्पयामि |


श्रीमहागणपतये नमः - हस्तेषु अर्घ्यं समर्पयामि |


श्रीमहागणपतये नमः - मुखारविन्दे आचमनीयं समर्पयामि |


श्रीमहागणपतये नमः - मलापकर्षणस्नानं समर्पयामि |


श्रीमहागणपतये नमः - फलपंचामृतस्नानं समर्पयामि |


श्रीमहागणपतये नमः - शुद्धोदकस्नानं समर्पयामि |


श्रीमहागणपतये नमः – स्नानानंतरमाचमनीयं समर्पयामि |


श्रीमहागणपतये नमः - वस्त्रयुग्मं समर्पयामि |


श्रीमहागणपतये नमः - आचमनीयं समर्पयामि |


श्रीमहागणपतये नमः - यज्ञोपवीतं समर्पयामि |


श्रीमहागणपतये नमः - आचमनीयं समर्पयामि |


श्रीमहागणपतये नमः - आभरणानि समर्पयामि |


श्रीमहागणपतये नमः – दिव्यगंधान् धारयामि |


श्रीमहागणपतये नमः - अक्षतान् समर्पयामि |


|| अथ नाम पूजा ||

ॐ सुमुखाय नमः | ॐ एकदन्ताय नमः | ॐ कपिलाय नमः | ॐ गजकर्णकाय नमः || ॐ लम्बोदराय नमः | ॐ विकटाय नमः | ॐ विघ्नराजाय नमः | ॐ गणाधिपाय नमः | ॐ धूम्रकेतवे नमः | ॐ गणाध्यक्षाय नमः | ॐ फालचन्दाय नमः | ॐ गजाननाय नमः ||


श्रीमहागणपतये नमः - नानाविध परिमलपत्र पुष्पाणि समर्पयामि ||


श्रीमहागणपतये नमः - धूपमाघ्रापयामि |


श्रीमहागणपतये नमः - दीपं दर्शयामि |


श्रीमहागणपतये नमः - धूपदीपानन्तरं आचमनीयं समर्पयामि |


श्रीमहागणपतये नमः - अमृतनैवेद्यं समर्पयामि |


श्रीमहागणपतये नमः - ताम्बूलं समर्पयामि |


श्रीमहागणपतये नमः - दिव्यमङ्गलनीराजनं दर्शयामि |


ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदंताय विघ्न विनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः ||


श्रीमहागणपतये नमः - मन्त्रपुष्पं समर्पयामि|


श्रीमहागणपतये नमः - प्रदक्षिण नमस्कारान् समर्पयामि |


श्रीमहागणपतये नमः - प्रसन्नार्घ्यं समर्पयामि |


वक्रतुण महाकाय सूर्यकोटिसमप्रभ | निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||


श्रीमहागणपतये नमः - प्रार्थयामि |


श्रीमहागणपतये नमः - समस्तोपचार पूजाः समर्पयामि |


अनया पूजया श्रीमहागणपतिः प्रीयताम् ||


ध्यानम्[edit]

कैलासाचलमध्यस्थं कामिताभीष्टदायकम् | ब्रह्मादि प्रार्थना प्राप्त दिव्यमानुषविग्रहम् ||


भक्तानुग्रहधीकान्त शान्त स्वान्त समुज्ज्वलम् | सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ||


किङ्करी भूतभकैनः पङ्कजात विशोषणम् | ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ||


चिन्मुद्रां दक्षहस्ते प्रणत जनमहाबोधदात्रीं दधानम् | वामेनम्रेष्टदान प्रकटनचतुरं चिह्नमप्यादधानम् ||


कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशम् | चन्द्राहङ्कारहुङ्कृत् स्मितलसितमुखं भावयाम्यन्तरङ्गे ||


अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं ध्यायामि

आवाहनम्[edit]

सद्गुरो शङ्कराचार्य रूपान्तरितविग्रह | साक्षाच्च्छ्रीदक्षिणामूर्ते कृपयाऽऽवाहितो भव || अस्मिन् बिंबमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं आवाहयामि ||


आसनम्[edit]

आर्याम्बा गर्भसम्भूत मातृवात्सल्य भाजन | जगद्गुरु ददाम्येतद्रत्नसिंहासनं शुभम् || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रत्नसिंहासनं समर्पयामि ||


पाद्यम्[edit]

विद्य धिराजसत्पौत्र विद्याव्यासङ्गतत्पर | विश्वविख्यातवैदुष्य पाद्यमेतद्ददाम्यहम् || श्रीशङ्करभगवत्पादाचार्य स्वामिने नमः - पादारविन्दयोः पाद्यं समर्पयामि ||


अर्घ्यम्[edit]

शिवगुर्वन्वयाम्बोधि शरत्पर्वनिशाकर | शिवावतार भगवन् गृहाणार्घ्यं नमोऽस्तुते || श्रीशङ्करभगवत्पादाचार्य स्वामिने नमः - हस्तयोः अर्घ्यं समर्पयामि ||


आचमनम्[edit]

दरिद्र ब्राह्मणीसद्म स्वर्णामलकवर्षक | विस्मापकस्वात्मवृत्त ददाम्याचमनीयकम् || श्रीशङ्कर भगवत्पादाचार्यस्वामिने नमः - मुखारविन्दे आचमनीयं समर्पयामि ||


मधुपर्कम्[edit]

जननीसमनुज्ञात सन्यासाश्रमसंग्रह | गन्धर्वशापशमन मधुपर्कं ददामि ते || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मधुपर्कं समर्पयामि ||

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनीयं समर्पयामि ||


स्नानम्[edit]

|| अभिषेकः || वाराणसीपुरी रम्यगज्जा तीरनिषेवक | गंगादितीर्थैः श्री रुद्रमन्त्रैस्त्वां स्नपयाम्यहम् || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - स्नानाजमाचमनीयमाचमनीयं समर्पयामि ||


भाष्य भागीरथी पाथः पवित्रीकृत भूतल | भाष्य प्रवचनासक्त वस्त्रयुग्मं ददामि ते ||


श्रीशङ्कर भगवत्पादाचार्यस्वामिने नमः - वस्त्रयुग्मं समर्पयामि ||


श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनीयं समर्पयामि ||


श्रीगध्धम्[edit]

सनन्दनादि मेधाविपण्डितच्छात्र संवृत | सर्वशास्त्रार्थनिपुण गन्धान् धारय सादरम् || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दिव्यगस्धानारयामि ||


श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - गन्धस्योपरि अलङ्करणार्थम् अक्षतान् समर्पयामि ||


भस्मोद्धूलनम्[edit]

वृद्धवेष प्रतिच्छन्न व्याससन्दर्शनोत्सुक | भस्मोद्धूलितसर्वाङ्ग भस्म दिव्यं ददामि ते || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - भस्मोद्धूलनं समर्पयामि ||


कुङ्कुमचूर्णं[edit]

व्यासदत्त वरप्राप्त षोडशाब्दायुरुज्ज्वल | किङ्करीभूतभूपाल कुङ्कुमं ते ददाम्यहम् || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - कुङ्कुमचूर्णं समर्पयामि ||


रुद्राक्षमालिका[edit]

श्रीमन्मण्डनमिश्रादि वादकेळिविशारद | दुर्वादतूलवातूल भज रुद्राक्षमालिकाम् || श्रीशङ्करभगवत्पादाचार्य स्वामिने नमः - रुद्राक्ष मालिकां समर्पयामि ||

बिल्वपत्रं[edit]

श्रीमन्मण्डनकर्णोक्त महावाक्यादिमन्त्रक | सुरेश्वराख्या सन्दायिन् बिल्वपत्रं ददामि ते || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - बिल्वपत्रं समर्पयामि ||


पुष्पमालिका[edit]

सुरेश पद्मचरण हस्तामलक तोटकैः | अन्यैश्च शिष्यैः संवीत पुष्पमालां ददामि ते || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पुष्पमालिकां समर्पयामि ||


|| अथ पत्रपूजा ||


ॐ शिवरूपाय नमः - बिल्व पत्रं समर्पयामि |


ॐ शक्तिरूपाय नमः - कदम्बपत्रं समर्पयामि |


ॐ विष्णुरूपाय नमः - तुलसीपत्रं समर्पयामि |


ॐ लक्ष्मीरूपाय नमः - तामरसपत्रं समर्पयामि |


ॐ ब्रह्मरूपाय नमः - दाडि मीपत्रं समर्पयामि |


ॐ सरस्वती रूपाय नमः - मल्लिकापत्रं समर्पयामि |


ॐ गणपति रूपाय नमः - दूर्वापत्रं समर्पयामि |


ॐ षण्मुखरूपाय नमः - मरुवकपत्रं समर्पयामि |


ॐ श्रीचक्र रूपाय नमः - अशोकपत्रं समर्पयामि |


ॐ श्रीदक्षिणामूर्ति रूपाय नमः - नानाविध पत्राणि समर्पयामि


|| अथ पुष्प पूजा ||


ॐ शिवरूपाय नमः - जातीपुष्पं समर्पयामि |


ॐ शक्ति रूपाय नमः - कदम्बपुष्पं समर्पयामि |


ॐ विष्णुरूपाय नमः - तुलसी पुष्पं समर्पयामि |


ॐ लक्ष्मीरूपाय नमः - पद्म पुष्पं समर्पयामि |


ॐ ब्रह्मरूपाय नमः - श्वेतकमलपुष्पं समर्पयामि |


ॐ सरस्वतीरूपाय नमः - मल्लिकापुष्पं समर्पयामि |


ॐ गणपतिरूपाय नमः - कल्लारपुष्पं समर्पयामि |


ॐ षण्मुखरूपाय नमः - जपापुष्पं समर्पयामि |


ॐ श्रीचक्र रूपाय नमः - अशोकपुष्पं समर्पयामि |


ॐ श्रीदक्षिणामूर्ति रूपाय नमः - नानाविध पुष्पाणि समर्पयामि ||


|| श्रीशङ्कराचार्याष्टोत्तरशतनामावलिः ||[edit]

ॐ श्रीमत्कैलासनिलयश ज्कुराय नमो नमः | ॐ ब्रह्मविद्याऽम्बिकाक्लिष्टवामाज्ञाय नमो नमः | ॐ ब्रह्मोपेन्जमहेग्दादि प्रार्थिताय नमो नमः | ॐ भक्तानुग्रहथीकानशान्तस्वान्ताय ते नमः | ॐ नास्तिकाक्रान्तवसुधा पालकाय नमो नमः | ॐ कर्मकाणावनस्कन्दप्रेषकाय नमो नमः | ॐ लोकानुग्रहणोपात्तनृदेहाय नमो नमः | ॐ कालटी क्षेत्रवासादिरसिकाय नमो नमः | ॐ पूर्णानदीतीरवासलोलुपाय नमो नमः | ॐ विद्याधि राजसद्वंशपावनाय नमो नमः | ॐ आर्याम्बिकागर्भवास निर्बराय नमो नमः | ॐ शिवगुर्वाप्तसुकृतसत्फलाय नमो नमः | ॐ आर्या शिवगुरुप्रीतिभाजनाय नमो नमः | ॐ ईश्वराखीयवैशाखपण्चु मीजन्मने नमः | ॐ निजावतारानुगुण शङ्कराख्या भृते नमः | ॐ नामसंख्यासमुन्नेय जन्मकालाय ते नमः | ॐ शङ्कराख्या सुविख्यातमजलाय नमो नमः | ॐ पितृदत्तान्वर्णभूतनामधेयाय ते नमः | ॐ बाललीलातोषि तस्वमातृकाय नमो नमः | ॐ प्रथमाबाभ्यस्तनाना भाषाढ्याय नमो नमः | ॐ द्वितीयाखकृतस्वीयसच्चूडाकृतये नमः | ॐ निजतात वियोगार्त मात्राश्वासकृते नमः | ॐ मातृकारितसद्विप्रसम्स्काराय नमो नमः | ॐ पलाशदण्णमौव्यादिभासुराय नमो नमः | ताय नमो नमः | ॐ विद्यागुरुकुलैकान्तनिवासाय नमो नमः | ॐ विद्याग्रहण नैपुण्य विस्मापनकृते नमः | ॐ अभ्यस्यवेदवेदाजसन्लोहाय नमो नमः | ॐ भिक्षाशनादि नियमपालकाय नमो नमः | ॐ विद्याविनयसम्पत्ति विख्याताय नमो नमः | ॐ भिक्षामलकसन्गातृसतीशोकहृते नमः | ॐ स्वर्णामलकसद्वृष्टिकारकाय नमो नमः | ॐ न्यायसांख्या दिशास्त्राब्दि मथनाय नमो नमः | ॐ जैमिनीयनयाल्गॊधिकर्णधाराय ते नमः | ॐ पातज्ञुलनयारण्यपश्चास्याय नमो नमः | ॐ मातृशुश्रूषणासक्तमानसाय नमो नमः | ॐ पूर्णासामीप्य सन्तुष्टमातृकाय नमो नमः | ॐ केरलेशकृतग्रन प्रेक्षकाय नमो नमः | ॐ दत्तराजोपहारादिनिराशाय नमो नमः | ॐ स्वावतारफलप्राप्ति निरीक्षणकृते नमः | ॐ सन्यासग्रहणोपायचिनकाय नमो नमः | ॐ नक्रग्रहमिषावाप्तमात्राज्ञाय नमो नमः | ॐ प्रैषोच्चारणसंत्यक्तनक्रपीडाय ते नमः | ॐ अन्यकालस्वसानिध्यशम्मकाय नमो नमः | ॐ गोविन्दभगवत्पादान्वेषकाय नमो नमः | ॐ गोविन्दशिष्य ताप्राप्ति प्रशम्सनकृते नमः | ॐ आर्य पादमुखावाप्तब्रह्म विद्याय ते नमः | ॐ नर्मदातटिनी तीरस्तम्भकाय नमो नमः | ॐ गुर्वसुज्ञातविश्वेशदर्शनाय नमो नमः | ॐ वाराणसी विश्वनाथक्षेत्रगाय नमो नमः | ॐ चणालाकृति विश्वेशवादसंश्राविणे नमः | ॐ मनीषापण्चुकस्तोत्रतावकाय नमो नमः | ॐ साक्षात्कृतमहादेवस्वरूपाय नमो नमः | ॐ गुरुविश्वेश्वराज्ञप्त भाष्यग्रस्थकृते नमः | ॐ नानाभाष्य प्रकरणस्तोत्रजातकृते नमः | ॐ देवतागुरुविप्रादिभक्ति संधुक्षिणे नमः | ॐ भाष्याद्यध्यापनासक्तमानसाय नमो नमः | ॐ आनन्गादि शिष्या घसंवृताय नमो नमः | ॐ पद्मपादाभिधालाभहृष्टशिष्याय ते नमः | ॐ आचार्य भक्ति माहात्म्यनिदर्शनकृते नमः | ॐ वृद्दव्यासपरामृष्टभाष्यार्थाय नमो नमः | ॐ व्यासप्रशंसिताशेषभाष्यजाताय ते नमः | ॐ तत्तत्प्रश्नोत्तरश्रोतृव्यासप्रीतिकृते नमः | ॐ नारायणावतारत्वस्मारकाय नमो नमः | ॐ वेदव्यासवरप्राप्त षोडशाब्दायुषे नमः | ॐ कुमारिलजयाशम्साशम्सकाय नमो नमः | ॐ तुषाग्नि स्थितभट्टोक्तिश्लाघकाय नमो नमः | ॐ सुब्रह्मण्यावतारश्रीभट्टनुग्राहिणे नमो नमः | ॐ मणानाख्य महासूरिविजयाशम्सिने नमः | ॐ माहिष्मतीपुरोपानपावनाय नमो नमः | ॐ शुकसूचिततदेहदर्शकाय नमो नमः | ॐ वादभिक्षापेक्षणादिस्वाशयोद्घाटिने नमः | ॐ व्यासजैमिनिसानिध्य वावदूकाय ते नमः | ॐ मणनीयप्रश्न जातोत्तरदात्रे नमो नमः | ॐ मध्यस्थ भारतीवाक्यप्रमाणाय नमो नमः | ॐ मालामालिन्यनिर्विण्णमणानार्य जिते नमः | ॐ प्रवृत्ति मार्गपारम्य वारकाय नमो नमः | ॐ कर्मकाणीय तात्पर्योद्गारकाय नमो नमः | ॐ ज्ञानकाण् प्रमाणत्व समर्थनकृते नमः | ॐ युक्ति साहस्रतो 2 द्वैतसाधकाय नमो नमः | ॐ जीवब्रह्मैक्य सिद्धान्त संस्थापनकृते नमः | ॐ निजापजयनिर्विज्ञमणनेड्य पदे नमः | ॐ सन्यासकृन्मणनानु ग्राहकाय नमो नमः | ॐ महावाक्योपदेशादिदायकाय नमो नमः | ॐ सुरेश्वराभिधाजुष्टशिष्या नु ग्राहिणे नमः | ॐ वनदुर्गामन्तबद्द भारतीवपुषे नमः | ॐ शृश्राद्रि क्षेत्रसानिध्य प्रार्थकाय नमो नमः | ॐ श्रीशारदादिव्यमूर्ति स्थापकाय नमो नमः | ॐ शृश्राद्रिशारदपीठसंस्थापनकृते नमः | ॐ द्वादशाब्दनि जावासपूतशृश्राद्रये नमः | ॐ प्रत्यहं भाष्य पाठादिकालक्षेपकृते नमः | ॐ अन्यकालस्मृतिप्राप्तमातृपार्श्वा य ते नमः | ॐ मातृसंस्कारनिर्व्यूढ प्रतिज्ञाय नमो नमः | ॐ पख्चुपादीसमुद्दारवीतपद्माङये नमः | ॐ स्ववधोद्युक्तकापालिकोपेक्षणकृते नमः | ॐ स्वशिष्यमारितस्वीयमारकाय नमो नमः | ॐ परकायप्रवेशादियोगसिद्धिमते नमः | ॐ लक्ष्मीनृसिंहकरुणाशान्तदेहाधये नमः | ॐ गोकर्णनाथमूकाम्बासन्दर्शनकृते नमः | ॐ मृतपुत्रोज्जीवनादिमहाश्चर्यकृते नमः | ॐ मूक बालकसम्भाषाद्यमानुषकृते नमः | ॐ हस्तामलकनामाढ्य शिष्योपेताय ते नमः | ॐ चतुर्दिक्चतुराम्नाय.पकाय नमो नमः | ॐ तोटकाभिधसच्छिष्य संग्रहाय नमो नमः | ॐ हस्ततोटक पद्मांघिसुरेशाराध्य ते नमः | ॐ सर्वज्ञपीठगाय नमो नमः | ॐ केदारान्तरिकैलासप्राप्तिकर्रे नमो नमः | ॐ कैलासाचलसंवासिपार्वतीशाय ते नमः | ॐ मज्जलौघलसत्सर्वमज्ञलापतये नमः ||


धूपम्[edit]

सर्वज्ञपीठिकारोहसमुत्सुकितमानस | सर्वज्ञमूर्तॆ सर्वात्मन् धूपमाजिघ्र सादरम् || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - धूपमाघ्रापयामि ॥


दीपम्[edit]

सरस्वतीकृत प्रश्नोत्तरदान विचक्षण | शृङ्गाद्रिस्थानतत्संस्थाकारिन् दीपं गृहाण भोः || श्रीशङ्कर भगवत्पादाचार्यस्वामिने नमः - दीपं दर्शयामि ||


श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - धूपदीपानन्तरं आचमनीयं समर्पयामि |||

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनानन्तरं परिमलपत्र पुष्पाणि समर्पयामि ||


नैवेद्यम्[edit]

षण्मत स्थापनाचार्य षड्दर्शनविशारद | गृहाण षड्रसोपेतं भक्ष्यभोज्यादिकं प्रभो || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः – नैवेद्यं समर्पयामि ||


सर्वदिक् चतुराम्नाय व्यवस्थापक शङ्कर | सर्वलोकैक सम्पूज्य पानीयं प्रतिगृह्यताम् ||


श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मध्ये मध्ये अमृतपानीयं समर्पयामि ||


अमृता पिधानमसि - उत्तरापोशनं समर्पयामि |

श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - हस्तप्रक्षाळनं समर्पयामि |

गण्डूषं समर्पयामि | पादप्रक्षाळनं समर्पयामि | आचमनीयमाचम्नीयं समर्पयामि | करोद्वर्तनं समर्पयामि|


सर्वलोकसुविख्यात यशोराशिनिशाकर | सर्वात्म भूत सुगुरो ताम्बूलं प्रददामि ते || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पूगीफल ताम्बूलं समर्पयामि ||


प्रस्थानत्रयीभाष्य निर्माणैक विशारद | अज्ञानतिमिरोत्सारिन् पश्य नीराजनप्रभाम् || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दिव्यमङ्गलनीराजनं दर्शयामि ||


श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः – नीराजनानंतरं आचमनीययं समर्पयामि | आचमनानन्तरं परिमलपत्र पुष्पाणि समर्पयामि ||


मस्त्रपुष्पम्[edit]

श्रीविद्यादिमहामन्त्रमाहात्म्यपरिदर्शक | मन्त्रसारज्ञ भगवन् मन्त्रपुष्पं ददामि ते || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मन्त्रपुष्पं समर्पयामि ||


प्रदक्षिणा[edit]

प्रदक्षिणीकृताशेष भारताजिर शङ्कर | प्रदक्षिणं करोमि त्वां प्रसन्नवदनाम्बुज || श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - अनन्तकोटि प्रदक्षिण नमस्कारान् समर्पयामि ||


प्रसन्नार्घ्यम्[edit]

प्रसन्नहृदयाम्भोज प्रपन्नार्तिप्रभञ्जन | प्रकृष्टज्ञानमाहात्म्य प्रसन्नार्घ्यं ददामि ते || श्रीशङ्करभगवत्पादाचार्य स्वामिने नमः - इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ||


प्रार्थना[edit]

अनेक जन्मसम्प्राप्त कर्मबन्धविदाहिने | आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ||


ज्ञानं देहि यशो देहि विवेकं बुद्दिमेव च | वैराग्यं च शिवां विद्यां निर्मलां भक्तिमन्वहम् ||


अद्वैतसार सर्वस्व संग्रहोत्सुकमानस | शिष्योपदेशप्रणयिन् प्रार्थनां ते समर्पये || श्रीशङ्कर भगवत्पादाचार्यस्वामिने नमः - प्रार्थयामि ||

  पुनः पूजा – छत्रं आच्छादयामि - चामरं वीजयामि - गीतं श्रावयामि - वाद्यं घोषयामि – नृत्तं दर्शयामि - आन्दोलिकामारोपयामि - अश्वमारोपयामि - गजमारोपयामि - रथमारोपयामि - ध्वजारोहणं समर्पयामि ||


क्षमाप्रार्थना[edit]

आवाहनं न जानामि न जानामि विसर्जनम् | पुजाविधिं न जानामि क्षमस्व गुरुसत्तम ||


अन्यथा शरणं नास्ति त्वमेव शरणं मम | तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ||


अपराधसहस्राणि क्रियन्तेऽहर्निशं मया | दासोऽयमिति मां मत्वा क्षमस्व गुरुपुङ्गव ||


कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् | करोमि यद्यत्सकलं परस्मै श्रीशङ्करायेति समर्पयामि ||


हृत्पद्मकर्णिकामध्यं स्वशिष्यैः सह शङ्कर | प्रविश त्वं महादेव सर्वलोकैकनायक ||


यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु | न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ||


मन्त्रहीनं क्रियाहीनं भक्तिहीनं जगद्गुरो | यत्पूजितं मया देव परिपूर्णं तदस्तु मे ||


अनेन मया कृत पूजया श्रीशङ्करभगवत्पादाचार्यः प्रीयताम् ||


मध्ये मन्त्र तप्त स्वर वर्ण ध्यान नियम न्यूनातिरिक्त लो पदोष प्रायश्चित्तार्थं नामत्रय जपमहं करिष्ये ||


ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः (एवं त्रिः) ॐ अच्युतानन्त गोविन्देभ्यो नमो नमः ||


प्रायश्चित्तान्य शेषाणि तपःकर्मात्मकानि वै | यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ||


॥ श्रीकृष्ण-कृष्ण-कृष्ण ॥


॥ ॐ हर ॐ हर ॐ हर ॥


॥ श्रीमहात्रिपुरसुन्दरी चरणारविन्दार्पणमस्तु ॥

References[edit]